Follow me and tweet your essay title to me . Will surely help you !

If you want any essay please follow me and tweet to me . I will surely help you !

Follow me and tweet your essay title to me . Will surely help you !

वैशाखी पर्व (Sanskrit Essay on Vaisakhi)


वैशाखी पर्व भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । भारतस्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति । कृषकाः उत्सवे नृत्यन्ति गायन्ति च । भगवतः स्मरणं कुर्वन्ति । अस्मिन् दिवसे मृदङ्गनादं कृत्वा कृषकाः आनन्दम् अनुभवन्ति । यस्मिन् दिने सूर्यःमेषराशिं प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । पञ्जाबराज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः पञ्जाबराज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।पञ्जाबराज्ये कृषेः विशेषं महत्वं वर्तते । तत्रत्याः कृषकाः कृषिकार्यं निष्ठापूर्वकम्, उत्साहपूर्वकं च कुर्वन्ति । ते कृषकाः कृषेः स्वेषां जीवनं चालयन्ति । पञ्जाबराज्यस्य कृषकाणां यादृशः उत्साहः आभारते तादृशः उत्साहः अन्यत्र कुत्रापि न दृश्यते । अस्मिन् पर्वणि कृषकाः प्रथमं पक्वं सस्यं भगवते अग्नये ददति । तदनन्तरं प्रसादं सर्वे जनाः गृह्णन्ति । पक्वानि सस्यानि दृष्ट्वा कृषकेषु उत्साहं प्रसन्नता च दृश्यते ।यदा कृषकाः आवर्षम् उद्यमान् कुर्वन्ति तदैव वर्षान्ते सस्यानि परिपक्वानि भवन्ति । ततः परं तेषां कर्तनकार्यं कृत्वा विक्रयणार्थं प्रेषयन्ति । अन्ते सम्पूर्णवर्षस्य फलं प्राप्य विश्रान्तिम् अनुभवन्ति ।वैशाखी-पर्व मूलरूपेण नूतनसस्यानाम् उत्सवः अस्ति । सस्येषु अपि विशेषतः 'रबी' इत्यस्य सस्यस्य उत्सवः । पञ्जाबराज्ये 'रबी' इत्यस्य खाद्यानि भवन्ति । तेषु चणकः, सर्षपः, एरण्डः इत्यादयः अस्यां ऋतौ उत्पाद्यन्ते ।

वेदः (Sanskrit Essay on Vedas)

चत्वारः वेदाः भवन्ति । ऋग्वेदःयजुर्वेदःसामवेदःअथर्ववेदश्चेति  एकैकस्यापि संहिताब्राह्मणम्आरण्यकम्उपनिषत् इत्येवं विभागाः सन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभावतांऋषीणां योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य ऋषिःछन्दःदेवता इति त्रितयमस्ति ।संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि । प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते ।प्रधानतया वेदो द्विविधः मन्त्ररूपो ब्राह्मणरूपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूपबोधकतया वैदिकविधिप्रयोगविवरणया च प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।

नेल्सन् मण्डेला (Sanskrit Essay on Nelson Mandela )

नेल्सन् मण्डेला दक्षिण-आफ्रिकादेशस्य सुप्रसिद्धः नायकः । नेल्सन् रोलिह्लाह्ल मण्डेला अस्य पूर्णनाम भवति । अमेरिकादेशस्य मार्टिन् लूथर् किङ्ग् यथा वर्णभेदस्य विरुद्धम् आन्दोलनं कृतवान् तथैव अयमपि स्वदेशे आन्दोलनं कृतवान् । अत्रत्य जनानां प्रीतिपात्रः अस्ति । अधुनिकयुगस्य राजकीयक्षेत्रस्य सुप्रसिद्धः, नैतिकव्यक्तित्वयुक्तः च आसीत् । भारतस्य राष्ट्रपतिचरः के.आर्. नारायणन् ’अधुनिकगान्धिः’ इति एनं सम्बोधितवान् आसीत् ।नेल्सन् मण्डेलः जुलैमासस्य १८ तमे दिनाङ्के १९१८ तमे संवत्सरे दक्षिण-आफ्रिकादेशस्य ट्रान्स्कै पत्तनस्य उयतलसमीपस्थे क्वुनुग्रामे अजायत । अस्य जनाङ्गस्य सम्प्रदायानुसारं नाम स्थापितम् आसीत् । अस्य पिता हेन्रिगाड्ला । अस्य चतस्रः भार्याः आसन् ।आफ्रिकादेशे वर्णभेदः बहुधा कृष्णवर्णीय जनान् पीडयति स्म । प्राथमिकशिक्षणाध्ययनकाले विरमेषु समयेषु बान्धुभिस्सह गोपालनार्थं गच्छति स्म । कश्चनः बन्धुः वर्णभेदस्य विषये अफ्रिकादेशे विद्यमानान् क्लेशान् बोधितवान् । तदारभ्य अस्य मनसि वर्णभेदस्य निवारणार्थं चिन्तनम् आसीत् । अस्मिन् देशे कृष्णवर्णीयाः आन्दोलनं कर्तुं न शक्नुवन्ति स्म । ग्रन्थालयेषु प्रवेशः न आसीत् । चलचित्रमन्दिरेश्वपि प्रवेशः न आसीत् । कृष्णवर्णीयजनेभ्यः स्वातन्त्र्यमेव न आसीत् । मेमासस्य १९६१ तमे संवत्सरे नेटाल्-देशस्य पीटर् यार्ट्ज बर्गनगरे अस्य भाषणम् आसीत् । निषेधः इति बहुदिनेभ्यः भाषणं न कृतवान् आसीत् । किन्तु तत्रत्य भाषणं प्रचोदनकारी सार्वकारस्य विरुद्धं च आसित् । बन्धितुम् आरक्षकाः प्रयासं कृतवन्तः । ततः सह पलायितः । 

महाराणा प्रताप ( Sanskrit Essay on Maharana Pratap )

'मेवाड' इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः किस्ताब्दीयचत्वारिंशदुत्तरपञ्चदशशततमे वर्षे जातः । तस्य पिता उदयसिंहः । तस्मिन् समये बहवो राजानः मोगलचक्रवर्तिभिः सह आयुध्य पराजयम् अनुभूय तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे । तस्मिन् काले अकबरमहाशयः देहल्यां शासनं करोति स्म ।यदा राणाप्रतापसिंहः अरण्ये वसति स्म तदा तस्य परिवारः महत्कष्टम् अनुबभूव । एकत्र सर्वदा वैर्याक्रमणशङ्का अन्यत्र आहाराभावात् पुत्रकलत्राणां कष्टपरम्परा अतीव वेदनाकरी बभूव । एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यतृणजूर्णेन रोटिकाः सज्जीकृत्य सर्वेभ्यः किञ्चित् - किञ्चिद्भागं दत्तवती । स्वपुत्र्यै अपि रोटिकां दत्त्वा "तस्याः अर्धमेव खादित्वा अवशिष्टमर्धं परेद्युः भक्षणार्थं रक्ष " इति सूचितवती । स्वप्रियदुहितुः परेद्युः आहारः लप्स्यते वा न वा इति शङ्कया प्रेममयी माता तथावोचत् । एतादृशं दारुणं कारुण्यपूर्णञ्च जीवनं सर्वेऽपि परिवारः व्यतीयाय ।मेवाडराज्यस्य मुख्यसङ्घर्षः मुघलसेनया सह आसीत् । प्रतापस्य शासनावधौ 'अकबर'इति नामकः मुधलसम्राट् आसीत् । प्रतापस्य २५ वर्षाणां शासनकाले अकबरस्य सेनया सह अनेकवारं युद्धम् अभवत् । मुख्यं युद्धं हल्दीघाटीस्थाने अभवत्, अतः एव एतत् 'हल्दीघाटीयुद्धम्' इति नाम्ना प्रसिद्धम् अस्ति ।प्रतापः स्वजन्मस्थानमेव परित्यज्य गतवानिति तस्य शत्रवः परिहासरताः आसन् । इतः परं पुनः स योद्धम् आगच्छेदिति स्वप्नेऽपि ते न चिन्तयन्ति स्म । किन्तु महाराणाप्रतापः तेषां निरीक्षां मिथ्यां कृत्वा पराक्रन्तां स्वकीयराज्यसीमाम् अपूर्वेण पराक्रमेण स्वाधीनां कर्तुम् अभ्यपतत् ।

स्वच्छभारताभियानम् ( Sanskrit Essay on Swacch Bharat Abhiyan )

स्वच्छभारताभियानम्  इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम्  २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्के भारतगणराज्यस्य पूर्वप्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुः महात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत् 
२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे दिनाङ्के स्वतन्त्रतादिनपर्वणि भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् महात्मजयन्तीपर्वदिनात् आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये  दिनाङ्के नवदेहली-महानगरस्थे राजघाटे प्रधानमन्त्री नरेन्द्र मोदी भारतं न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयं प्रधानमन्त्री स्वहस्ते मार्जनीं धृत्वा नवदेहली-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।

राष्ट्रियबालदिनम् (Sanskrit essay on Children's Day )

श्री जवाहरलालनेहरुः भारतस्य प्रथमप्रधानमन्त्री आसीत् । महान् देशभक्तः श्रेष्ठलेखकः पण्डितः जवहारलालनेहरुः बालैः सह सदा वार्तालापं करोति स्म । बालान् प्रति प्रीतिं दर्शयति स्म । अत एव नायकाः श्री जवाहरलालमहोदयस्य जन्मदिनं तस्य इच्छानुसारेण बालदिनम् इति आचरन्ति ।१९१६ तमे वर्षे जवाहरलालनेहरुः मेलकौलराजपतिदेवीदम्पत्योः सुतां कमलां परिणीतवान् । १९१७ तमे वर्षे जवाहरलालनेहरुमहोदयस्य प्रथमा पुत्री सञ्जाता । इन्दिराप्रियादर्शिनी इति तस्याः नाम कृतवान् । श्रीमोतिलालनेहरुमहोदयस्य सुतस्य राजकीयप्रवेशः इष्टः न आसीत् । १९१९ तमे वर्षे जवाहरलालनेहरुः बार एटला पदवीं प्राप्य अलहाबादश्रेष्ठन्यायालये न्यायवादिवृत्तिम् आरभ्य अग्रे महात्मागान्धिनः प्रभावात् भारतीय- स्वातन्त्र्यान्दोलनम् प्रविष्टवान् ।

ए पि जे अब्दुल् कलाम् ( Sanskrit Essay on Dr. Abdul Kalam )

अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः १५ अक्टोबर् १९३१ – २७ जुलै २०१५ अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळळ्नाडुराज्यस्य रामेश्वरम् इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् ।लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः अभियन्ता अविवाहितः च आसीत् ।अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् । अस्य पिता जैनुलाब्दीन् तु धनवान् विद्यावान् च नासीत् । सः शुद्धहस्तः अनुशासितः नाविकः आसीत् । धीवरेभ्यः नौकाः भाटकरूपेण यच्छाति स्म । डा. अब्दुल् कालामः भारतस्य एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । भारतीयजनतापक्षेण समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना अन्ये सर्वे अकुर्वन्। क्रि.श. २००२तमवर्षस्य जुलैमासस्य १८तमे दिने डा. कलामः ९०%बहुमतेन भारतस्य राष्ट्रपतिः अभवत् ।क्रि.श. १९६२तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटने सेवायां नियुक्तः । डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य (एस्.एल्.वी. तृतीयः)प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया अध्ययनं करोति । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव ।

जलमालिन्यम् ( Sanskrit essay on Water Pollution )

जलमालिन्यं प्रमुखेषु परिसरमालिन्येषु अन्यतमं विद्यते । सरोवराः, नद्यः, समुद्राः इत्यादिषु अनपेक्षितानां वस्तूनां संयोगेन जलमालिन्यं भविष्यति ।अस्मिन् दशके अस्माकं भूमण्डलस्य परिसरस्य प्रदूषणं विषयीकृत्य सर्वेषु राष्ट्रेषु बहुभिः नेतृभिः प्राज्ञैः वैज्ञानिकैः पौरजनैः विशेषेण चर्चा प्रचालिता । परिसरस्य प्रदूषणं विविच्य विविधया दृष्ट्या एते प्रविभागाः प्रवृत्ताः - जलमालिन्यं, वायुमालिन्यं, शब्दमालिन्यं, भूमालिन्यम्, आम्लवर्षणम् इत्यादयः । सर्वस्यापि भूमण्डलस्य परिसरस्तावत् एक एव । सः पुनः निर्मातुं न शक्यते । अतः परिसररक्षणे एव यत्नः सर्वैः विधेयः ।
जले यदा अनपेक्षितानि हानिकारकाणि विषयुक्तानि रासायनिकवस्तूनि, आम्लानि, तैलादीनि विलीयन्ते, तदा तादृशं जलं जीविनां प्राणधारणाय योग्यं न भवति । इदं जलमालिन्यम् इत्युच्यते ।
जलमालिन्यस्य एतानि प्रमुखानि कारणानि -पेट्रोलियम् तैलम्, डि.डि.टि इत्यादयः कीटनाशकाः, पि.सि.बि (पालि क्लोरिनेटड् बैफीनैल्) रासायनिकाः कीटनाशकाः, पारदः, क्याङ्मियम् आर्सैनिक् इत्यादिलोहाः, अणुशक्तिकारागारेभ्यः निसृतानि अनुपयोगीनि वस्तूनि नगरेभ्यः बहिः निष्कासितानि फेनकानि, तत्र प्रमुखानि । एवं विविधानि रासायनिकानि जलमालिन्यं कुर्वन्ति । जलजन्तूनां प्राणधरणाय जले वीलीनः आम्लजनकः अत्यावश्यकः । एतानि लवणानि जले विलीनं भूय आम्लजनकानिलं दुर्बलं कुर्वन्ति । एवं तस्मिन् मलिने जले जलजन्तवः जीवितुम् अशक्ताः भवन्ति म्रियन्ते च ।

रक्षाबन्धनम् ( Sanskrit essay on Rakshabandhan )

रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति । ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।

चाणक्यः ( Sanskrit essay on Chanakya )

चाणक्यः मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्यप्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद" इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।

पुष्पाणि ( Sanskrit essay on Flower )

पुष्पाणि अथवा कुसुमानि वृक्षाणां लतानां वा सन्तानसंवर्धकानां बीजानाम् निर्माणस्य मूलानि भवन्ति । लोके कुसुमानि सर्वजनप्रियाणि तेषां क्वचित् सौन्दर्येण क्वचित् सुगन्धेन क्वचित् उभयाभ्यां च । पुष्पाणि सस्यानां बीजोत्पादनस्य प्रक्रियायाः परागस्पर्शः गर्भीकरणस्य मूलस्थानं भवन्ति।पुष्पाणि सुन्दराणि इति जनैः मन्यन्ते। तेषां सुगन्धं जनानां चित्तम् आह्लादयति। अतः एव ते उपवनेषु पुष्पाणि निरोपयन्ति। ललनाः पुष्पाणि स्वकेशेषु धारयन्ति। भक्ताः देवेभ्यः पुष्पाणि अर्पयन्ति। जनाः पुष्पाणि पुष्पधानीषु स्थापयित्वा स्वगृहाणि भूषयन्ति।पुष्पाणि सपुष्पकाणां पुनरुत्पादनसाधनानि सन्ति।हरितदलानि -मुकुलं रक्षन्ति।पुङ्केसरः- रेणुं रचयति।
पुष्पेषु चत्वारि खण्डानि सन्ति।हरितदलानि मुकुलम् रक्षन्ति।रञ्जितदलानि षट्पदान् आकर्षन्ति।पुङ्केसरः रेणुं रचयति।गर्भकेसरः अस्मिन् एव बीजानि वर्धन्ते।
भ्रमरः, जलम् अथवा वायुः रेणुं पुङ्केसरात् गर्भकेसरं चालयन्ति। जनाः कानिचन पुष्पाणि खादन्ति। केसरः उपस्करः वर्तते। पुष्पेभ्यः मधु लभ्यते। शुष्कपुष्पैः चायपानं कर्तुं शक्यते।

चाणक्यः ( Sanskrit essay on Chanakya )

चाणक्यः मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य:अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवनेतक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद" इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।

नेपाल महाभूकम्प २०१५ ( Sanskrit essay on Nepal earthquake )

भूगर्भे विविधकारणेभ्यः सम्पन्नः कम्पनमित्यादि वैपरीत्यमेव भूकम्पः । २०७२ वैक्रमाब्दस्य वैशाख शुक्ल सप्तम्याम् (वैशाख १२ दिनाङ्के) ११.५६ होरायाम् नेपाल देशे ७.८ रेक्टर्मापने महाभूकम्पः सञ्जातः । एतत् भूकम्पे शतसः मन्दिराः नवतिसहस्राधिक एकलक्ष परिमितानि गृहाणि च पूर्णरूपेण नष्टाः । पञ्चशताधिक सप्तसहस्रपरिमिताः जनाः कालकवलिताः । १४४४६ जना अाहताश्च ।काष्ठमण्डपमण्डले १२२० परिमिताः जनाः मृताः ४६३४ जनाः अाहताः ।एतन्मण्डले मृतकानाम् सङ्ख्या २६९ अाहतानाम् संख्या १८८५ वर्तते ।एतन्मण्डले मृतकानाम् सङ्ख्या १७१ अाहतानाम् संख्या १०९० वर्तते ।काष्ठमण्डप मण्डलतः पश्चिमदिशि स्थितः धादिङमण्डले ७०२ परिमिताः जनाः महाभूकम्पेन हताः सन्ति ।एतन्मण्डले मृतकानाम् सङ्ख्या ३०८ अाहतानाम् संख्या ७४८ वर्तते ।एतन्मण्डले मृतकानाम् सङ्ख्या ४१० अाहतानाम् संख्या १३२ वर्तते ।

यष्टिकन्दुकक्रीडा ( Sanskrit essay on Hockey )

यष्टिकन्दुकक्रीडा एका प्रसिद्धा कन्दुकक्रीडा वर्तते । वर्तमानसमये एषा भारतदेशस्य राष्ट्रियक्रीडा वर्तते ।कन्दुकं प्रति विश्वमानवस्याकर्षणमतीव प्राचीनकालादेव प्रवृत्तं प्रतीयते । हस्ताभ्यां पद्भ्यां कन्दुक-क्रीडनान्याचरन्तः कदाचिदुपकरणैरपि क्रीडितुं विहितोत्साहा बालाः कठोरं कन्दुकं यष्टया ताडयित्वाऽपि खेलनमारभन्त । अस्याः क्रीडायाः प्रारम्भः कदा समजायतेति विषये न सन्ति सर्वेऽपि क्रीडेतिवृत्तविद ऐकमत्यधराः । परं सर्वेषामिदमस्त्यभिमतं यद् 'दण्डेन क्न्दुकताडन-सम्बन्धिनीयं क्रीडा वस्तुतो विश्वस्य प्राचीनासु क्रीडास्वेकाऽवश्यमस्ति ।’ अतोऽस्याः कल्पनाऽऽदिकालादेव कर्तुं शक्यते । तदा प्रारम्भे केनापि मानवेन वृक्षस्य शाखोत्पाटय सन्त्रोटय वा भूमौ पतितं किमपि पाषाणखण्डं किमपि वस्तुविशेषं वा सन्तडयैकस्मात् स्थानादपरस्मिन स्थाने प्रक्षिप्तमभविष्यत् तेनैव स्वभावेनाग्रे 'यष्टि -कन्दुक-क्रीड' या रुपं धारितमभविष्यत् ।

वाल्मीकिः ( Sanskrit Essay on Valimiki )

वाल्मीकिमहर्षिः  श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् । रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते ।रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत् । स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् ।तस्य मुखात् शापः श्लोकरूपेण निःसृतः ।

योगः ( Sanskrit essay on Yoga )

योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन् श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च । परम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् ।योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- आसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि – इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः  । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिध्दयति ।

व्याघ्रः ( Sanskrit Essay on TIger )

प्राणिसाम्राज्ये सस्तनीवर्गे अन्तर्भूतः 'फेलिडे'कुटुम्बः एव मार्जालकुटुम्बः । सिंहः व्याघ्रः चित्रोष्ट्रः मार्जालादयश्च फेलिडेकुटुम्बस्य प्रभेदाः एव । एतेषाम् उगमः 'आलिगोसिन्'युगे प्रायशः त्रिकोटिवर्षेभ्यः पूर्वम् । एते ३७ प्रधानप्रभेदेषु विभक्ताः दृश्यन्ते ।भारते पुराणकथासु विग्रहेषु च व्याघ्रः विशेषगौरवभाक् दृश्यते । कालीदेव्याः वाहनरूपः अस्ति व्याघ्रः । महाभारते नलदमयन्त्योः कथायां गोमुखव्याघ्रः इत्येषः शब्दप्रयोगः दृश्यते । बौद्धग्रन्थेषु च व्याघ्रस्य उल्लेखः दृश्यते ।भारतस्य राष्ट्रियप्राणी व्याघ्रः अरण्यस्य अनभिषिक्तः सम्राट् वर्तते । दर्प-धैर्य-गाम्भीर्याणां प्रतिनिधिः अस्ति व्याघ्रः । दृढकायः, भीमबलः, अनुशासनयुक्तः, सङ्कोचस्वभावी एकाकी अस्ति अयं व्याघ्रः । उत्तमतरणपटुः, सहनाशीलः, अद्भुतदृष्टिशक्ति-घ्राणशक्तियुक्तः, तीक्ष्णजिह्वायुक्तः, दीर्घश्मश्रुमान् भीरुः अस्ति व्याघ्रः ।अत्युत्तमं शरीरदार्ढ्यं, लघु कण्ठः, सुन्दरौ कपोलौ, वृत्ताकारकं मुखं शिरश्च, तन्वाकारकौ कृष्णवर्णीयौ ओष्ठौ, दृढः मांसखण्डः, प्रकाशयतः नेत्रे, स्थूलरेखाभिः युक्तः सुवर्णवर्णः कायः, दीर्घाः श्वेताः श्मश्रवः, शरीरस्य अन्तर्भागे उदरे पादयोः च श्वेतकेशाः, नेत्रयोः उपरितने भागे श्वेतवर्णीयाः कालकाः दृश्यन्ते । आरोग्यवतः दृढकायस्य व्याघ्रस्य औन्नत्यं १२ पादमिताः, भारश्च २७५ किलोग्राम्-युतश्च भवति । तस्य शरीरस्य वर्णः आकारश्च तस्य प्रदेशस्य वातावरणं, जलं, मृत्तिका, सस्यसम्पत्तिः, आहारादिकञ्च अनुसरति ।

भूकम्पः ( Sanskrit Essay on Earthquake )

भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पनमित्यादी वैपरीत्यमेव भूकम्पः ।भूकम्पः यदा सम्भवति तदा तरङ्गाणां सरण्या भूमिः कम्पिता भवति । भूकम्पस्य केन्द्रं परितः एते तरङ्गाः प्रसरन्ति । भूमेरन्तः वर्तमानानां शिलास्तराणां भङ्गेन जायमानात् कम्पनकेन्द्रं गणयित्वा भूमेरुपरि भूकम्पकेन्द्रम् इति वदन्ति । कदाचित् भूकम्पस्य परिणामतःभूमि एकनिमेषतः अपि अधिकं कालं यावत् कम्पते । भूकम्पात् जायमानस्य नष्टस्य कारणं भूकम्पस्य तीव्रता एव । अधिकजनयुतेषु प्रदेशेषु अधिका हानिः सम्भवति ।मर्क्यालिमानम् – एतत् मानं भूकम्पस्य तीव्रतां मापयित्वा , अमुके प्रदेशे प्रवृत्तस्य भूकम्पस्य प्रमाणं विवृणोति ।एतस्मिन् रोमन् संख्या I तः XII पर्यन्तं भवति | अत्र परिणामाः संक्षिप्ततया प्रदत्ताः।एतत्मापनं भूकम्पस्य प्रमाणं अथवा विस्तारं मापयितुं उपयुनक्ति ।सेस्मोग्राफ उपकरणेन भूकम्पतः उत्पन्नां शक्तिं मापयितुं शक्यते ।एतान्मानचित्रम् बृहत्भूकम्पवलयं दर्स्शयति । शान्तसागरस्य तटपर्यन्तं तथा आल्फपर्वतश्रेण्यां, हिमालयमध्ये वर्तमानपर्वतश्रेणीनां तथा तासां समीपि भूकम्पः सामान्यतया सम्भवति । प्रगतशतमानस्य विपत्कारिणं भूकम्पाः प्रत्येकं भूकम्पः रेक्टर् उपकरणे अष्टमस्थानं अतिक्रान्तः । १७५५ तमे वर्षे लिस्बन्प्रदेशे सम्भूतः भूकम्पः रिक्टर्मापने ८.७५ तः ९ पर्यन्तं तीव्रतायुक्तः आसीत् । चीनादेशस्य षेंन्सिप्रदेशे प्रवृत्ते १५५६ तमे वर्षे प्रवृत्ते भूकम्पे ८,३०,००० जनाः कालकवलीभूताः ।

भरद्वाजमहर्षिः ( Sanskrit Essay in Bhardwaj Maharshi )

सुदीर्घकालं जीवन् अपि मानवः इतोऽपि अधिककालं जीवितुम् इच्छति । एषः मानवस्य स्वभावः । परन्तु तदेव जीवनम् उन्नतध्येयसाधननिमित्तं यदि भवति तर्हि तत् नितरां प्रशस्यते । सप्तर्षिषु अन्यतमस्य भरद्वाजस्य कथा अत्र उत्तमम् उदाहरणम् अस्ति । भरद्वाजः अत्रिमुनेः पुत्रः आदिकाव्यस्य रामायणास्य कर्तुं वाल्मीकिमुनेः शिष्यः च । सः वेदाध्ययने, देवध्याने च निरतः आसीत् । यदा मराकालः सन्निहितः तदा पुनः इन्द्रस्य ध्यानं कृत्वा - ‘मम आयुः वर्धयतु’ इति प्रार्थितवान् भरद्वाजः । प्रत्यक्षीभूतः इन्द्रः भरद्वाजम् आत्मना सह किञ्चिद्दूरं नीतवान । दूरे उन्नताः त्र्यः पर्वताः द्दश्यन्ते स्म । इद्न्रः भरद्वज्स्य अञ्जल्यां मुष्टित्रयपरिमिताः सिकताः स्थापितवान् । भरद्वाजः मौनं स्थितवान् आसीत् ।
"दूरे स्थितानां पर्वतानां महत्वं मनसि निधाय भवान् वदतु -अञ्जल्यां स्थितानां सिकतानां परिमाणं कियत् ?" इति प्रुष्ट्वान क्न्द्रः । "क्क ते पर्वताः क्क च अञ्जलिमिताः सिकताः ! महत् अन्तरम् एतयोः " इति उक्तवान् भाद्वाजः । तदा इन्द्रः -"भवता ज्ञातं वेदज्ञानम् अपि मुष्टिपरिमितम् एव । बवता पर्वतपरिमितं ज्ञातव्यम् अस्ति " इति उक्तवान् इन्द्रः । भरद्वाजः मदवचनात् भीतः सन्- यावत् ज्ञातं तावता अलम् इति वदेत् , अथवा अहङ्कार्ण -मया सर्वं ज्ञातम् अस्ति इति व वदेत्’ इति इन्द्रः चिन्तितवान् आसीत् । भरद्वाजः तु किञ्चितकालं यावत् मौनं स्थित्वा - "तर्हि ज्ञानं नाम तावत् बृहत वा ! तत् मया सम्पादनीयम । भवतः आशीर्वादःअ अस्ति चेत् तान् त्रीन् अपि पर्वतान् मदीयान् करिष्यामि" इति म्,अहता विनयेन उक्तवान । भरद्वाजस्य द्दढम् आत्मविश्वासम्, उन्नतध्येयं च ज्ञात्वा इन्द्रः आश्चर्यचकितः अभवत् । सः भरद्वाजं पुनः अपि शतवर्षपरिमितेन आयुषा अनुगृह्य अद्दश्यतां गतः ।

नरेन्द्र मोदी ( Sanskrit Essay on Narendra Modi )

नरेन्द्र दामोदरदास  मोदी वर्यस्य समर्थत्वेन दूरदर्शि नेतु: स्वरूपे आदरं कुर्वन्ति। य: पारदर्शितया निश्चितरीत्या च सर्वेषां जीवनं परिवर्तयन् समीकुर्वन् च वर्तते। महोदय: कुशल: वक्ता निपुण: मन्त्रणाकार: चास्ति। श्रीनरेन्द्रमोदी ग्रामीणानां नागरिकानां समानं स्नेह प्राप्नोति। तस्य अनुयायिषु समाजस्य प्रत्येकसम्प्रदायस्य धर्मस्य - आर्थिकवर्गस्य च जना: समाविष्टा: सन्ति। उत्तरगुजरातराज्यस्य महेसाणामण्डलस्य वडनगरनामक: कश्चन लघुग्राम:, यत्र १९५० तमे वर्षे 'सितम्बर'-मासस्य सप्तदशे दिनाङ्के नरेन्द्रमहोदयस्य जन्म अभवत्। आर्. एस्. एस्. मध्ये स्व-कार्यकालावसरे श्री नरेन्द्रमोदीवर्य: १९७४ तमे वर्षे भ्रष्टाचारविरुद्धे आन्दोलने आपत्काले यदा भारतीयनागरिकाणां मूलाधिकाराणां हननं जायमानम् आसीत् तदा तादृशेषु अवसरेषु तेन महत्त्वपूर्णा: भूमिका: निरूढा:। तस्य नेतृत्वे शिक्षणं - कृषि: आरोग्यसेवया सहितं नैकेषु क्षेत्रेषु महत् परिवर्तनं दृष्टुं शक्यते। तेन राज्यस्य उज्वलभविष्याय स्वदृष्टि: स्थिरीकृता। नीति-अनुगुणं परिवर्तनम् आनेतुं कार्यक्रमा: आरब्धा:। सर्वकारस्य प्रशासनविभागानां पुन: व्यवस्थां कृत्वा गुजरातं सफलतापूर्वकं समृद्धिपथम् आनीतवान् माननीय: नरेन्द्रमोदीवर्य:। २०१४ तमस्य वर्षस्य मई-मसास्य षड्विंशतितमे दिनाङ्के राष्ट्रपतिः प्रणब मुखर्जितेन प्रधानमन्त्रिशपथम् अकारयत् । अधुना सः प्रधानमन्त्रित्वेन देशस्य मार्गदर्शनं कुर्वन् अस्ति ।

जलम् ( Sanskrit Essay on Water )

जलम्  एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते ।
अस्माकं पृथिवी स्थलशाला इव अस्ति । अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते । महासागराणां, समुद्राणां च जलं लावण्यं वर्तते । तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते ।

सङ्गणकम् ( Sanskrit essay on Computer )

सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् 'आम्', 'न' इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् '०' अङ्कस्य अर्थः 'न' अस्ति, '१' अङ्कस्य अर्थः 'आम्' अस्ति च। आं न इति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्वौ भागौ स्तः- तन्त्रांशःयन्त्रांशः च। तन्त्रांशः एव यन्त्रांशं कार्य कर्तुम् आदेशं यच्छति। आधुनिके युगे सङ्गणकानि विना जीवनं न सम्भवति। गणकयन्त्रं तु एकम् विद्युन्मानयन्त्रं वर्तते । एकविंशतितमं शतकं गणकयन्त्रयुगनाम्ना निर्दिश्यते । अद्यत्वे गणकयन्त्रेण विना जगति किमपि न प्रचलति जगच्च न अग्रे सरति। यथा धूमशकटयानस्य, लोकयानस्य च चीटिकादानादारभ्य वित्तकोशीयव्यवहारपत्राणां सज्जतापर्यन्तं सर्वाणि कार्याणि गणकयन्त्रसाहाय्येन एव प्रचलन्ति । पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म । अतः तद्युगं शिलायुगम् इति कथ्यते स्म । तदनन्तरं कालक्रमेण अश्मायुधं परित्यज्य शराग्रे तीक्ष्णलोहभागं विधाय, परशोः साहाय्येन वा आहारं प्राप्य उदरम्भरणं करोति स्म । तद्युगं लोहयुगमिति कथ्यते स्म । कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत् तथा तथा नूतनानि उपकरणानि आविष्कृतानि । अनेकानि औषधानि संशोधितानि । अधुना मानवः गगने खगः इव विमानयानेन उड्डयनं यथा तथा अर्णवे अन्तर्जलगामिन्या मत्स्य इव तरणं कर्तुम् शक्नोति ।

होली ( Sanskrit Essay on Holi )

होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति पुराणेषु ।

होलिकानामिका हिरण्याक्ष-हिरण्यकशिपो: सोदरी । महामायाविनी सा अग्निसिद्धिम् अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परमविष्णुभक्तं स्वपुत्रं प्रह्लादं मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि स: सफल: नाभवत् । तस्मात् कुपित: हिरण्यकशिपु: सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्या: किमपि न भवति । प्रह्लादम् अग्नि: दहति इति । अत: राक्षसा: होलिकाया: उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्त: । किन्तु परिणाम: तु व्यतिरिक्त: जात: । होलिका तदग्नौ दग्धा सती तत्रैव मरणं प्राप्नोत् । भगवद्भक्त: प्रह्लाद: भस्मराशित: बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।

स्वच्छभारताभियानम् ( Sanskrit essay on Swacch Bharat Abhiyan )

स्वच्छभारताभियानम् इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम् । २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्केभारतगणराज्यस्य पूर्वप्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुः महात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत्  ।

 २०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४)                              दिनाङ्के स्वतन्त्रतादिनपर्वणि भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् महात्मजयन्तीपर्वदिनात् आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के नवदेहली-महानगरस्थे राजघाटे प्रधानमन्त्री नरेन्द्र मोदी भारतं न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयं प्रधानमन्त्री स्वहस्ते मार्जनीं धृत्वा नवदेहली-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।

फलानि ( Sanskrit Essay on Fruits )

फलम् अपि द्विविधं भवति । कानिचन फलानि यदा वर्धन्ते तदा एव सेवन्ते । अन्यानि कानिचन शुष्कीकृत्य अनन्तरं सेवन्ते । तादृशानि शुष्कफलानि इति उच्यन्ते । अतः वयं फलानि द्विधा विभक्तुं शक्नुमः ।

सचिन तेण्डुलकर ( Sanskrit Essay on Sachin Tendulkar )

सचिनतेण्डुलकरः प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव। सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र आस्ट्रेलिया भारतयोः द्वितीयं टेस्ट् प्रवृत्तम् ।
वेस्ट-इण्डिसदेशीयेन ब्रियानलारेण ११,९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । पीटरसिडलस्य प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम्।

संस्कृतवाङ्मयम् ( Sanskrit Essay on Sanskrit Literature )

संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥
संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥
भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥
संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥

भारतस्य राष्ट्रध्वजः ( Sanskrit Essay on India Flag )

भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेणसुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । राष्ट्रध्वजस्य परिकल्पना पिङ्गलि वेङ्कय्य-नामकेन देशभक्तेन कृता आसीत् ।भारतस्वतन्त्रतादिनात् पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य द्वाविंशतितमे (२२/७/१९४७) दिनाङ्के भारतीयसंविधानसभा एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत् ।
राष्ट्रध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् अशोकचक्रं विद्यते । तस्य चक्रस्य चतुर्विंशतिः अराः सन्ति । तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति । महात्मना प्रचारितेन खादि-वस्त्रेण निर्मितः राष्ट्रध्वजः एव सांविधानिकरीत्या मान्यः । कोऽपिरेशम-वस्त्रेण निर्मितस्य राष्ट्रध्वजस्य यदि उपयोगं कर्तुम् इच्छति, तर्हि कर्तुं शक्नोति ।