दीपावलिः ( Sanskrit Essay on Diwali )

दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

पृथ्वी ( Sanskrit Essay on Earth )


पृथ्वी सूर्यमण्डले तृतीयः ग्रहः अस्ति । ग्रहाणां गुरुत्वानुगुणं पञ्चमस्थाने भवति । एषा कदाचित् लोक:, वैज्ञानिकभाषायां Earth वा अपि भाष्यते। पृथिवी ४।५४ कोटिवर्षेभ्य: प्राक् जनिमलभत। जैवविविधता एतस्या: ख्याति:। पृथिव्या: पर्यावरणं कालश: तस्या: वातावरणं विध: कृतं तेन च जीवसृष्टि: निर्मिता। पृथिव्या: उपरि एका ओझोन (Ozone layer) नाम्ना पट्टिका अस्ति। एतस्या: पृथिव्या: रक्षण: भवति।
जलेन विना जीवितं व्यर्थम् इति उक्तं सत्य:। जलस्य लाभ: पृथिव्याम् अतीव। अत: पृथिव्यां जीवन: सुसह्य: अस्ति।

प्रणब् मुखर्जि ( Sanskrit Essay on Pranav Mukharjee )

प्रणबकुमार् मुखर्जि भारतस्य राष्ट्रपतिरूपेण चितः अस्ति । तेन ७२ प्रतिशतं मतानि प्राप्तानि तन्नाम ५.१८ लक्षपरिमितानि मतानि । मुखर्जिः भारतीय राष्ट्रियकाङ्ग्रेस्पक्षस्य ज्येष्ठः नेता आसीत् । राष्ट्रपतिनिर्वाचने भागग्रहणाय २०१२ तमस्य वर्षस्य जुलै २२ तमे दिनाङ्के सः स्वस्य स्थानाय त्यागपत्रम् अयच्छत् । सः जुलैमासस्य २५ तमे दिनाङ्के राष्ट्रपतिपदं समलङ्करोत् ।मुखर्जिः ब्रिटिश्भारतस्य वङ्गराज्ये मिरटिप्रदेशे जन्म प्राप्तवान् । तस्य पिता कामद किङ्कर मुखर्जि भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य सदस्यः आसीत् मुखर्जि बहूनाम् पुस्तकानाम् अपि लेखक: अस्ति ।

जयपुरम् ( Sanskrit Essay on Jaipur )


जयपुरं भारतस्‍य राजस्थान प्रान्‍तस्‍य राजधानी अस्‍ति । गुलाबीनगरनाम्ना प्रसिद्धम् अपि । ऐतिहासिकम् आमेरनगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ संस्थापितवान् ।
जंतर-मंतर, नाहरगढ़, जयगढ़, जलमहल, मोतीडूंगरी, अल्बर्ट हॉल, गोविन्ददेवजी मंदिर, सिटी पैलेस इत्यादीनि प्रमुखानि दर्शनयोग्यानि स्थलानि सन्ति। प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति। जयपुरस्य आभूषणानि, वान-व्यापार, ब्लुपाटरी इत्यादीनि प्रसिद्धअनि सन्ति।

पर्यावरणम् ( Sanskrit Essay on Environment )

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते।

माता ( Sanskrit Essay on Mother )


यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते |
शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु अम्बायै ज्येष्ठांशम् विद्यते | माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति | न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते | यथा शिशो: जीवनं अम्बया विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि अम्बया विना जीवनं बहु कष्टं भवति |
भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये "जननि जन्मभूमिश्च स्वर्गादपि गरीयसि" इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |

कालिदासः ( Sanskrit Essay on Kalidas )

साहित्यलोके असंख्याः कवयः वर्तन्ते इति जानीमः । किन्तु तेषु अत्यल्पानामेव कविताः अहं पठितवान् । तथापि मनसि प्रविष्टानां कवीनां मध्ये कालिदासमहाकविः मम प्रियतमः । तस्मै आसन्दः किञ्चिदुन्नतस्थाने एव मया कल्पितः अस्ति । कारणं किमिति स्पष्टतया अहमपि न जानामि । संस्कृतपठनं यदा आरब्धवान् तथा आरभ्य कालिदासनाम शुणोमि स्म । किन्तु तदा तावत् श्रध्दा नासीत् । एकदा गुरुनाथः वर्गे एकं श्लोकं पाठितवान् यत् –
जम्बूफलानि पक्वानि
पतन्ति विमले जले ।
कपिकम्पितशाखाभ्यः
गुळुगुग्गुळु गुग्गुळु ॥ इति ॥
एतस्य अन्तिमं पादं मह्यं बहु अरोचत । अहं तत् प्रत्यक्षमुक्तवान् च । तदा अध्यापकः कालिदासकथां आरम्भतः अवसानपर्यन्तं बहुदिनैः उक्त्वा समापितवान् । तदानीम अहं ज्ञातवान् यत् ट्ण्डंटडण्डं टडडण्डडण्डम् इत्यादयः बहवः श्लोकाः सन्तीति । कालिदासविषये मम जिज्ञासां दृष्ट्वा गुरुः द्वित्रपुस्तकानि मह्यं दत्तवान् । तदहं शीघ्रमेव पठित्वा प्रत्यर्पितवान् च । तदानीं गुरुः उक्तवान् यत् अन्यः कालिदासमधिकृत्य किं वदति इत्यपेक्षया स्वयं कालिदासं पठति चेदेव उक्तमम् इति । ततः आरभ्य गुरोः साहाय्येन कालिदासकृतीः पठितुम् आरब्धवान् ॥
भिन्नभिन्नपुस्तकपठनतः अहं ज्ञातवान् यत् कालिदासस्य कालं, जन्मस्थानं किमधिकं कृतिः च अधिकृत्य पण्डितानां समानाभिप्रायः नास्तीति । तथापि कालिदासः उज्जयिन्यां षष्टशतके जातः इति सामान्याङ्गीकारः अस्ति च । एतत् सर्वं पठित्वा मम एवमभासत कालिदासः जनिं न प्राप्तवान् इति इतिहासकाराः वदन्ति चेदपि तस्य अस्तित्वं न नश्यति यावत् एकः श्लोकः जीवति । अत एव कालिदासस्य देशकालादिविषये चर्चाकरणसमयेन द्वित्रान् वा श्लोकान् पठति चेत् वरम् । तदानीं विक्रमादित्यसदसि नवरत्नेष्वन्यतमः कालिदासः भोजराजेन सह सल्लापं कुर्वन् प्रत्यक्षीभवति ॥

सरस्वती ( Sanskrit Essay on Sarswati )

           ऋग्वेदे उल्लिखिता काचित् नदी एषा । सरः(जलम्) अस्त्यस्याः इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या वाक् उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि शारदावागीश्वरीब्राह्मीमहाविद्या इत्यादीनि । सृष्टिकर्तुः ब्रह्मणः पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।

पक्षिणः ( Sanskrit Essay on Birds )

             पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूढः अयम् शब्द:अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते उष्णरक्तजीविन: सन्ति। ते अण्डजाः। तेषां शरीरं पक्षैः संवृद्धं भवति। तेषाम् अस्थीनि जर्जराणि सन्ति। ते द्विपदाः सन्ति। अद्य नवसहस्रपक्षिजातयः पृथिव्यां जीवन्ति। केचन पक्षिणः मांसं खादन्ति अन्ये फलानि शलाटून् झषान् वा भक्षयन्ति। विश्वेSस्मिन् डिण्डिमपक्षी लघुतमः अस्ति। तेषां रूक्षः चञ्चुः अस्ति। ते विभिन्नवर्णीया: भवन्ति। कोकिलादयः पक्षिणः मधुरम् गायन्ति । ते नीडेषु वसन्ति।

ऋग्वेदः ( Sanskrit Essay on Rig Veda )


ऋग्वेदः सनातनधर्मस्य मूलग्रन्थः। चतुर्मुखब्रह्मणः पूर्वदिङ्मुखान्निस्सृत ऋग्वेदः । एतस्य १०१७ सूक्तानि सन्ति। पण्डितानां मतानुसारं ऋग्वेदस्य कालः ५,००० वर्षेभ्यः प्राक् ।
ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः । अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः । इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम् । वेदः एव श्रुतिः आम्नायः आगमः इत्यादिः श्रूयते । ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः । एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वणः इति ॥

अल्लाह् रखा रहमान् ( Sanskrit Essay on A.R. Rehman )

              अल्लाह् रखा रहमान् (اللہ رکھا رحمان - उर्दूभाषा) इत्यस्य भारतीयचलच्चित्रसङ्गीतकोविदस्य जन्म क्रि.श.१९६६तमे वर्षे जनवरिमासस्य षष्ठे दिने अभवत् । अस्य जन्म नाम ए.एस्. दिलीप कुमारः । सङ्गीतसंयोजकः, ध्वनिमुदिकानिर्मापकः, गायकः इति लोके विख्यातः । क्रि.श.१९९०तमे वर्षे स्वरसंयोजनवृत्तिम् आरब्धवन् । एतावति काले अनेन १४वारं फिल्मफेर् प्रशस्तिः, ११वारं दक्षिणफिल्मफेर् प्रशस्तिः, ४वारं राष्ट्रियचलच्चित्रप्रशस्तयः, द्विवारम् आस्कर् प्रशस्तिः, एका गोल्डन् ग्लोब् प्रशस्तिः, च प्राप्ताः । लण्डन् नगरस्य ट्रिनिटि कालेज् आफ् म्यूज़िक् महाविद्यालये पाश्चात्यशास्त्रीयसङ्गीतस्य अध्ययनं कृत्वा पदवीं प्राप्तवान् । ततः स्वस्थानं चेन्नैनगरम् आगत्य स्वस्य पञ्चतन् रेकार्ड इन् इति सुव्यवस्थितां ध्वनिशालाम् आरब्धवान् ।अतः अयं विश्वप्रसिद्धः स्वरसम्राट् अभवत् 

गुरुनानक ( Sanskrit Essay on Gurunanak )

 पिता उपनयनं कर्तुम् उद्युक्तवान् । बालः नानकः यज्ञोपवीतधारणं नाङ्गीकृतवान् । " तत् तृटयति, अपवित्रं भवति, गमनसमये नैव सहागमिष्यति" इति वदति स्म। न केवलं तत्, " दयां कार्पासं कृत्वा, सन्तृप्तिं सूत्रं कृत्वा, निग्रहं बन्धनं कृत्वा ध्रीयते चेत् तदेव यज्ञोपवीतं भवति" इति स: प्रतिवदति स्म। "तादृशं यज्ञोपवीतं यः धरति सः एव दैवानुग्रहं प्राप्नोति" इति उक्तवान् । नानकस्य भार्या सुलखनी । श्रीचन्द्रः, लक्ष्मीदासश्च तस्य पुत्रौ । 'कृषिं कुरु' इति पिता प्रार्थितवान् । "मम देहक्षेत्रे मनः कृषीवलः, शीलमेव कृषिः, विनय एव जलम्, भगवद्भक्तिरेव बीजम्, सन्तृप्तिः हलः, दारिद्र्यं सीमा । प्रेम्णा पोषणं क्रियते चेत् वृक्षोप्तत्तिः भवति" इति भागवततत्त्वं ज्ञापयति स्म । "प्रतिदिनं पञ्चविषयान् प्रार्थयामि । प्रथमं सत्यं, द्वितीयं विशुध्दजीवनं, तृतीयं दैवानुग्रहं, चतुर्थं परिशुध्दं मनः,पञ्चमं दैवचिन्तनम् " इत्यवदत् । बाह्यसौन्दर्यसहितानां कर्मणामपेक्षया आत्मसौन्दर्यमेव श्रेष्ठम् । तदेव भगवतः समीपं प्रापयतीति तस्य विश्वासः। अद्वितीयः, सद्रूपः, सत्यस्वरूपः, सर्वव्यापकः, सृष्टिकर्ता, पुरुषोत्तमः, निर्भयः, निर्वैरः, कालातीतः, अभवः, स्वयंभूः, विज्ञानदाता, दयामयः इति भगवच्छब्दस्य निर्वचनं दत्तवान् स:। जातस्य हि ध्रुवो मृत्यु:। गुरुनानकः कर्तारपुरग्रामे अन्तिमसन्देशं दत्त्वा समाधिस्थितिं प्राप्तवान् । गुरुनानकः अस्माकं प्रातःस्मरणीयेषु अन्यतमः ।

मुम्बई ( Sanskrit Essay on Mumbai )


मुम्बई भारतस्‍य महाराष्ट्रप्रान्‍तस्‍य राजधानी अस्‍ति। एतद् नगरं भरतदेशस्य विशालं नगरम्। भारते लोकसंख्यया प्रथमं, पृथिव्यां द्वितीयं च एतन्नगरं वर्तते। भारतस्य पश्चिमे समुद्रतटे एतद् नगरं स्थितम्।
मुम्बई न केवलं महाराष्ट्रराज्यस्य राजधानी, अपि तु भारतदेशस्य वित्तीयमनोरंजनस्य राजधानी अपि वर्तते। भारतीय आरक्षितः अधिकोषः, मुम्बई शेर बाजार, राष्ट्रीय शेर बाजार इत्येतादृशाः नैके महत्वपूर्णाः संस्थाः अत्र सन्ति । अपि अत्र अनेकेषां सङ्घटनानां मुख्यकर्यालयाः सन्ति। मुम्बईनगरं हिन्दीभाषायां-चलचित्रस्यापि केन्द्रं। संजयगांधीराष्ट्रीयोद्यानं, लवणक्षेत्राणि, मैंग्रोववनानि आदि प्राकृतिकस्थलानि एतस्य नगरस्य समीपे वर्तते।

युधिष्ठिरः ( Sanskrit Essay on Yudhisthira )

युधिष्ठिरः पञ्चपाण्डवेषु ज्येष्ठः । पाण्डुमहाराजस्य पुत्रः । कुन्ती अस्य माता । भीमःअर्जुनः च युधिष्ठिरस्य अनुजौ । नकुलः सहदेवः च युधिष्ठिरस्य विमातुः माद्र्याः पुत्रौ । अयं युधिष्ठिरः यमधर्मराजस्य वरेण जन्म प्राप्नोत् । महाभारतस्य प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः ।

बालगङ्गाधर तिलकः ( Sanskrit Essay on Bal Gangadhar Tilak )


बालगङ्गाधर तिलकः (1856-1920) महान् राष्ट्रभक्तः । भारतस्य स्वातन्त्रसङ्ग्रामे प्रमुखः नेता आसीत् । स्वतन्त्रताया: आन्दोलनस्य प्रसङ्गे स: अघोषयत्‌, "स्वराज्यम्‌ अस्माकं जन्मसिद्ध: अधिकार:." इति ।
समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारम्‌ कारागारवासम् अनुभूतवान् स: संस्कृते विद्वान्‌ आसीत्‌ ।

पाणिनिः ( Sanskrit Essay On Panini )


पाणिनिः संस्कृतस्य महान् वैयाकरणः ।

पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शलातुरग्रामे अभवत् । अतः तस्य 'शलातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्थानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि कथ्यते । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'तक्षशिला'विद्यापीठे शिक्षां प्राप्तवान्  |  पञ्चतन्त्रानुसारेण पाणिनेः मुत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति |

आर्यभटः ( Sanskrit Essay on Aryabhatta )


आर्यभटः(४७६ - ५५०) महान् गणितज्ञःज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम्अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत्।
ज्योतिश्शास्त्रस्य शास्तीयत्वं परिकल्पितम् आर्यभटेन एव । आर्यभटम् ’आर्यभट्टः’ इत्यपि निर्दिशन्ति केचन । आर्यभटः क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातः इति, क्रि.श. ४९९ तमे वर्षे एषः ‘आर्यभटीयम्’ इति ग्रन्थं लिखितवान् इति च ज्ञायते । एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति । आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति । ‘मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । पञ्चाङ्गकर्तारः बहवः एतस्य सिद्धान्तम् एव अनुसरन्ति ।

रामायण ( Sanskrit Essay on Ramayana )


रामस्य अयनं (चरितं) रामायणम् । रामायणम् आदिकाव्यं सर्वेषां काव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चित् इतिहासग्रन्थः भवति । संस्कृतसाहित्ये रामायणवत् प्रसिध्दः लोकप्रियः च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतः अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः आसीत् रत्नाकरः इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युध्दमात्रं वर्णितम अपि च सकलालङ्काराणां प्रकृतिसौन्दर्यस्य च् धर्मस्य च वर्णना दृश्यते । सरलसंस्कृतभाषापठनार्थम अत्यन्तओपयिगि साधनं च भवत्येतत् ॥
रामायणम् आदिकव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः सः बहिः आगतः इत्यतः तस्य नाम 'वाल्मीकिः' इति काचित् कथा श्रूयते।

भारतस्य राजधानी - दिल्ली ( Sanskrit Essay on Delhi )


दिल्ली अथवा देहली भारतस्य राजधानी अस्ति। नवदिल्ली पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।
सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।  दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं दिल्ली बभूव । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् लोहितदुर्गं, कुतुबमीनार्, जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं , तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते । 

महाराष्ट्र ( Sanskrit Essay on Maharashtra )

महाराष्ट्रं भारतस्‍य पश्‍चिमे कश्चन प्रान्‍त: अस्‍ति। मुम्बयी इति महाराष्ट्रराज्यस्य राजधानी। अन्यानि नगराणि नागपुरंपुणेसोलापुरम् इत्यादयः। भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति। महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति। महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति। अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति

महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्रप्रदेशः तथा दक्षिणदिशायां कर्नाटकं गोवा च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति.
सह्याद्री पर्वतमाला (वा पश्चिमघट्ट:) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति। तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते। पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति। एष: बह्वीनां नदीनां स्रोतःअस्ति।

पशवः ( Sanskrit Essay on Animals )



पशवः जीविनः वर्तन्ते। ते स्वभोजनं रचयितुं न शक्नुवन्ति। अतः ते अन्यान् पशून् पादपान् अथवा गोलासान् भक्षयन्ति। केचन पीठमर्दाः(नायकस्य साहय्यका:) अपि सन्ति। अस्मिन् जगति अनेकाः पशुजातयः सन्ति। केचन पशवः विशालाः केचन लघवः सन्ति। केचन पशवः जलवासिनः सन्ति। केचन पशवः उड्डयनॆ समर्था:।
शाकभक्षकाः पादपान् खादन्ति। मांसभक्षकाः अन्यान् पशून् भक्षयन्ति। उभयभक्षकाः पशून् पादपान् च खादन्ति।
केचन पशवः सङ्गे वसन्ति। अन्ये पशवः एकचारिणः सन्ति। भ्रमराः करण्डे वसन्ति। तेषां नेत्री भ्रमर-राज्ञी इति कथ्यते।
लोकेSस्मिन् विविधाः पशवः सन्ति। तान् यथावर्गं रचयितुम् शक्नुमः। तेषु द्वौ प्रमुखौ वर्गौ स्तः अस्थिमन्तः अनस्थिमन्तः च। कर्कटाः वृश्चिकाः प्रवालाः कीटाः षट्पदाः शम्बूकाः च अनस्थिमन्तः सन्ति। अस्थिमत्सु पञ्चवर्गाः सन्ति। ते मत्स्याः मण्डूकादयः सर्पादयः पक्षिणः कशिनः च।

अमेरिका-संयुक्त-संस्थानम् ( United States Of America )

अमेरिका-संयुक्त-संस्थानम् | उत्तर अमेरिका खंडे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानीवाषिंग्टन् डी सी नगरम्। अट्लांटिक् महासागरःपेसिफ़िक् महासागरः च एतं देशं परितः स्त:। उत्तरदिशि केनडा देश: अस्ति।

महाभारतम् ( Sanskrit Essay on Mahabharata )

महाभारतम् महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्दं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्मार्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव।

महात्मा गान्धिः ( Sanskrit Essay on Mahatma Gandhi )


महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति ।भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।
अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदय: सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रत: आसीत् । स: वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।

जवाहरलाल नेहरुः ( Sanskrit Essay on Javaharlal Nehru )


जवाहरलाल नेहरुः (१८८९-१९६४) प्रयागे जात: ।
सः भारतवर्षस्य सर्वाधिककालपर्यन्तं नेतृत्वं कृतवान् तथा च प्रथमः प्रधानमन्त्री आसीत् ।१९४७तः-१९६४तमवर्षपर्यन्तं स: भारतस्य प्रधानमन्त्री आसीत्‌ ।
तस्य पितुः नाम मोतीलालनेहरुः । मातु: नाम स्‍वरूपरानी इति । केम्ब्रिजविश्‍वविद्यालये स्‍नातकपरीक्षाम्‌ उत्तीर्य स: विधिवेत्ता अभवत्‌। तस्य ब्राह्‍मणकुलोत्‍पन्‍नया कमलया सह विवाह: सम्पन्‍नः।
भारतदेशस्य स्वातन्त्र्यम् आगस्ट १५ दिनाङ्के १९४७ वर्षे अभवत् । तदा नेहरु ध्वजारोहणम् अकरोत् । प्रजाप्रभुत्वविषये नेहरु गुणत्वम् अपश्यत् इष्टवान् च। सः सेक्यूलरिसं, लिबरलिसं च इष्टवान् । दरिद्रेभ्यः दीनेभ्यः च साहाय्यकरणं तस्य प्रवृत्तिः आसीत् । नेहरुमहोदयस्य एतादृशाः गुणाः अस्माकं देशस्य संविधानरचनायां सहकरिणः अभवन् । देशस्य औन्नत्यर्थं प्रपञ्चे ये हितकारिणः गुणाः आसन् तान् अत्र स्थापितवान् । तस्य पुत्री इन्दिरा तथा दौहित्रः राजीवः स्वयं देशसेवां कर्तुकामौ देशस्य प्रधानमन्त्रिणौ अभवताम्